|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.55. अध्यायः 055
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन गमनसंभावनया रथेन गवाग्रं प्रत्यभियानम् ॥ 1 ॥ भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् ॥ 2 ॥ गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां विनिवर्तनम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-55-0x(3222)(30600)
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् ।
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ॥ 4-55-1(30601)
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम।
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ॥ 4-55-2(30602)
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् ।
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ॥ 4-55-3(30603)
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् ।
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ॥ 4-55-4(30604)
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ॥ 4-55-5(30605)
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः ।
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ॥ 4-55-6(30606)
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् ।
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ॥ 4-55-7(30607)
राजानं नेह पश्यामि निरापिषमिदं बलम्।
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ॥ 4-55-8(30608)
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम्।
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ॥ 4-55-9(30609)
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः ।
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ॥ 4-55-10(30610)
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः।
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः॥ 4-55-11(30611)
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः।
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ॥ 4-55-12(30612)
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति।
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ॥ 4-55-13(30613)
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति।
गवाग्रमभितो याहि यत्र राजा भविष्यति ॥ 4-55-14(30614)
वैशम्पायन उवाच। 4-55-15x(3223)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः।
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ॥ 4-55-15(30615)
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । 4-55-16(30616)
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः।
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ॥ 4-55-17(30617)
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च।
मृगं सिंह इवादातुमीक्षते पाकशासनिः ॥ 4-55-18(30618)
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति।
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ॥ 4-55-19(30619)
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे।
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात्।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥ 4-55-20(30620)
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा।
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ॥ 4-55-21(30621)
वैशम्पायन उवाच। 4-55-22x(3224)
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः।
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ॥ 4-55-22(30622)
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत्।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ॥ 4-55-23(30623)
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे।
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ॥ 4-55-24(30624)
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् ।
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ॥ 4-55-25(30625)
तत्र गत्वा पशून्वीर सगोपान्परिमोचय।
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ॥ 4-55-26(30626)
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम्।
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ॥ 4-55-27(30627)
वैशम्पायन उवाच। 4-55-28x(3225)
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः।
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ॥ 4-55-28(30628)
शलभैरिव चाकाशं धाराभिरिव पर्वतम्।
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ॥ 4-55-29(30629)
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः।
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ॥ 4-55-30(30630)
सा चापि बहुला सेना पार्थबाणाभिपीडिता।
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ॥ 4-55-31(30631)
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः।
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ॥ 4-55-32(30632)
तेषां नैवापयाने च नाभियाने भवन्मतिः ।
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ॥ 4-55-33(30633)
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम्।
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ॥ 4-55-34(30634)
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
वियद्गतानां देवानां मानुषाणां रवेण च॥ 4-55-35(30635)
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः ।
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ॥ 4-55-36(30636)
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा।
गोपालांश्चोदयामास गावश्चोदयतेति च ॥ 4-55-37(30637)
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः ।
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ॥ 4-55-38(30638)
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ॥ 4-55-39(30639)
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ॥ 4-55-40(30640)
वैशम्पायन उवाच।
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव। 4-55-41x(3226)
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ॥
हस्त्यश्वपरिवारेण महताऽभिविराजता। 4-55-41(30641)
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ॥
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्। 4-55-42(30642)
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ॥
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च। 4-55-43(30643)
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ॥
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण। 4-55-44(30644)
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ॥
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा। 4-55-45(30645)
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ॥ ॥ 4-55-46(30646)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चपञ्चासोऽध्यायः ॥ 55 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|